वसन्त पन्चमिको शुभकामना! सरस्वती वन्दना

सरस्वती माया दृष्टा विणा पुस्तकधारिणी। हंस वाहन संयुक्ता विद्यादानं कराेतुमे प्रथमं भारती नाम, द्वितीयं च सरस्वती तृतीयं शारदा देवी, चतुर्थं हंसवाहिनी पञ्चमन्तु जगन्माता, षष्ठं वागीश्वरी तथा सप्तमं कौमुदी प्रोक्ता, अष्टमं ब्रहचारिणी नवमं बुद्धिदात्री च, दशमं वरदायिनी एकादशं चन्द्रघण्टेती, द्वादशं भुवनेश्वरी द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः जिह्वाग्रे वसते नित्यं ब्रह्म रूपा सरस्वती

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता सा माम् पातु सरस्वती भगवती निःशेषजाड्यापहा ॥१।।

शुक्लां ब्रह्मविचारसारपरमाद्यां जगद्व्यापिनीं । वीणा-पुस्तक-धारिणीमभयदां जाड्यांधकारपहाम् ।। हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।।२।।